यस्य
स्मरणमात्रेण
जन्मसंसारबन्धनात्
।
विमुच्यते
नमस्तस्मै विष्णवे
प्रभविष्णवे ॥
नमः
समस्तभूतानामादिभूताय
भूभृते ।
अनेकरुपरुपाय
विष्णवे प्रभविष्णवे
॥
श्रीवैशम्पायन
उवाच
श्रुत्वा
धर्मानशेषेण पावनानि
च सर्वशः ।
युधिष्ठिरः
शान्तनवं पुनरेवाभ्यभाषत
॥ १ ॥
युधिष्ठिर
उवाच
किमेकं
दैवतं लोके किं
वाप्येकं परायणम्
।
स्तुवन्तः
कं कमर्चन्तः प्राप्नुयुर्मानवाः
शुभम् ॥ २ ॥
को
धर्मः सर्वधर्माणां
भवतः परमो मतः
।
किं
जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात्
॥ ३ ॥
भीष्म
उवाच
जगत्प्रभुं
देवदेवमनन्तं
पुरुषोत्तमम्
।
स्तुवन
नामसहस्रेण पुरुषः
सततोत्थितः ॥ ४
॥
तमेव
चार्चयन्नित्यं
भक्त्या पुरुषमव्ययम्
।
ध्यायन
स्तुवन नमस्यंश्च
यजमानस्तमेव च
॥ ५ ॥
अनादिनिधनं
विष्णुं सर्वलोकमहेश्वरम्
।
लोकाध्यक्षं
स्तुवन्नित्यं
सर्वदुःखातिगो
भवेत् ॥ ६ ॥
ब्रह्मण्यं
सर्वधर्मज्ञं
लोकानां कीर्तिवर्धनम्
।
लोकनाथं
महद्भूतं सर्वभूतभवोद्भवम्
॥ ७ ॥
एष
मे सर्वधर्माणां
धर्मोऽधिकतमो
मतः ।
यद्भक्त्या
पुण्डरीकाक्षं
स्तवैरर्चेन्नरः
सदा ॥ ८ ॥
परमं
यो महत्तेजः परमं
यो महत्तपः ।
परमं
यो महद्ब्रह्म
परमं यः परायणम्
॥ ९ ॥
पवित्राणां
पवित्रं यो मङ्गलानां
च मङ्गलम् ।
दैवतं
दैवतानां च भूतानां
योऽव्ययः पिता
॥ १० ॥
यतः
सर्वाणि भूतानि
भवन्त्यादियुगागमे
।
यस्मिंश्च
प्रलयं यान्ति
पुनरेव युगक्षये
॥ ११ ॥
तस्य
लोकप्रधानस्य
जगन्नाथस्य भूपते
।
विष्णोर्नामसहस्रं
मे शृणु पापभयापहम्
॥ १२ ॥
यानि
नामानि गौणानि
विख्यातानि महात्मनः
।
ऋषिभिः
परिगीतानि तानि
वक्ष्यामि भूतये
॥ १३ ॥
ॐ विश्वं
विष्णुर्वषट्कारो
भूतभव्यभवत्प्रभुः
।
भूतकृद्भूतभृद्भावो
भूतात्मा भूतभावनः
॥ १४ ॥
पूतात्मा
परमात्मा च मुक्तानां
परमा गतिः ।
अव्ययः
पुरुषः साक्षी
क्षेत्रज्ञोऽक्षर
एव च ॥ १५ ॥
योगो
योगविदां नेता
प्रधानपुरुषेश्वरः
।
नारसिंहवपुः
श्रीमान् केशवः
पुरुषोत्तमः ॥
१६ ॥
सर्वः
शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः
।
संभवो
भावनो भर्ता प्रभवः
प्रभुरीश्वरः
॥ १७ ॥
स्वयंभूः
शम्भुरादित्यः
पुष्कराक्षो महास्वनः
।
अनादिनिधनो
धाता विधाता धातुरुत्तमः
॥ १८ ॥
अप्रमेयो
हृषीकेशः पद्मनाभोऽमरप्रभुः
।
विश्वकर्मा
मनुस्त्वष्टा
स्थविष्ठः स्थविरो
ध्रुवः ॥ १९ ॥
अग्राह्यः
शाश्वतः कृष्णो
लोहिताक्षः प्रतर्दनः
।
प्रभूतस्त्रिककुब्धाम
पवित्रं मङ्गलं
परम् ॥ २० ॥
ईशानः
प्राणदः प्राणो
ज्येष्ठः श्रेष्ठः
प्रजापतिः ।
हिरण्यगर्भो
भूगर्भो माधवो
मधुसूदनः ॥ २१
॥
ईश्वरो
विक्रमी धन्वी
मेधावी विक्रमः
क्रमः ।
अनुत्तमो
दुराधर्षः कृतज्ञः
कृतिरात्मवान्
॥ २२ ॥
सुरेशः
शरणं शर्म विश्वरेताः
प्रजाभवः ।
अहः
संवत्सरो व्यालः
प्रत्ययः सर्वदर्शनः
॥ २३ ॥
अजः
सर्वेश्वरः सिद्धः
सिद्धिः सर्वादिरच्युतः
।
वृषाकपिरमेयात्मा
सर्वयोगविनिःसृतः
॥ २४ ॥
वसुर्वसुमनाः
सत्यः समात्माऽसम्मितः
समः ।
अमोघः
पुण्डरीकाक्षो
वृषकर्मा वृषाकृतिः
॥ २५ ॥
रुद्रो
बहुशिरा बभ्रुर्विश्वयोनिः
शुचिश्रवाः ।
अमृतः
शाश्वत स्थाणुर्वरारोहो
महातपाः ॥ २६ ॥
सर्वगः
सर्वविद्भानुर्विष्वक्सेनो
जनार्दनः ।
वेदो
वेदविदव्यङ्गो
वेदाङ्गो वेदवित्
कविः ॥ २७ ॥
लोकाध्यक्षः
सुराध्यक्षो धर्माध्यक्षः
कृताकृतः ।
चतुरात्मा
चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः
॥ २८ ॥
भ्राजिष्णुर्भोजनं
भोक्ता सहिष्णुर्जगदादिजः
।
अनघो
विजयो जेता विश्वयोनिः
पुनर्वसुः ॥ २९
॥
उपेन्द्रो
वामनः प्रांशुरमोघः
शुचिरूर्जितः
।
अतीन्द्रः
संग्रहः सर्गो
धृतात्मा नियमो
यमः ॥ ३० ॥
वेद्यो
वैद्यः सदायोगी
वीरहा माधवो मधुः
।
अतीन्द्रियो
महामायो महोत्साहो
महाबलः ॥ ३१ ॥
महाबुद्धिर्महावीर्यो
महाशक्तिर्महाद्युतिः
।
अनिर्देश्यवपुः
श्रीमानमेयात्मा
महाद्रिधृक् ॥
३२ ॥
महेष्वासो
महीभर्ता श्रीनिवासः
सतां गतिः ।
अनिरुद्धः
सुरानन्दो गोविन्दो
गोविदां पतिः ॥
३३ ॥
मरीचिर्दमनो
हंसः सुपर्णो भुजगोत्तमः
।
हिरण्यनाभः
सुतपाः पद्मनाभः
प्रजापतिः ॥ ३४
॥
अमृत्युः
सर्वदृक् सिंहः
सन्धाता सन्धिमान्
स्थिरः ।
अजो
दुर्मर्षणः शास्ता
विश्रुतात्मा
सुरारिहा ॥ ३५
॥
गुरुर्गुरुतमो
धाम सत्यः सत्यपराक्रमः
।
निमिषोऽनिमिषः
स्रग्वी वाचस्पतिरुदारधीः
॥ ३६ ॥
अग्रणीर्ग्रामणीः
श्रीमान् न्यायो
नेता समीरणः ।
सहस्रमूर्धा
विश्वात्मा सहस्राक्षः
सहस्रपात् ॥ ३७
॥
आवर्तनो
निवृत्तात्मा
संवृतः संप्रमर्दनः
।
अहः
संवर्तको वह्निरनिलो
धरणीधरः ॥ ३८ ॥
सुप्रसादः
प्रसन्नात्मा
विश्वधृग्विश्वभुग्विभुः
।
सत्कर्ता
सत्कृतः साधुर्जह्नुर्नारायणो
नरः ॥ ३९ ॥
असंख्येयोऽप्रमेयात्मा
विशिष्टः शिष्टकृच्छुचिः
।
सिद्धार्थः
सिद्धसंकल्पः
सिद्धिदः सिद्धिसाधनः
॥ ४० ॥
वृषाही
वृषभो विष्णुर्वृषपर्वा
वृषोदरः ।
वर्धनो
वर्धमानश्च विविक्तः
श्रुतिसागरः ॥
४१ ॥
सुभुजो
दुर्धरो वाग्मी
महेन्द्रो वसुदो
वसुः ।
नैकरूपो
बृहद्रूपः शिपिविष्टः
प्रकाशनः ॥ ४२
॥
ओजस्तेजोद्युतिधरः
प्रकाशात्मा प्रतापनः
।
ऋद्धः
स्पष्टाक्षरो
मन्त्रश्चन्द्रांशुर्भास्करद्युतिः
॥ ४३ ॥
अमृतांशूद्भवो
भानुः शशबिन्दुः
सुरेश्वरः ।
औषधं
जगतः सेतुः सत्यधर्मपराक्रमः
॥ ४४ ॥
भूतभव्यभवन्नाथः
पवनः पावनोऽनलः
।
कामहा
कामकृत्कान्तः
कामः कामप्रदः
प्रभुः ॥ ४५ ॥
युगादिकृद्युगावर्तो
नैकमायो महाशनः
।
अदृश्यो
व्यक्तरूपश्च
सहस्रजिदनन्तजित्
॥ ४६ ॥
इष्टोऽविशिष्टः
शिष्टेष्टः शिखण्डी
नहुषो वृषः ।
क्रोधहा
क्रोधकृत्कर्ता
विश्वबाहुर्महीधरः
॥ ४७ ॥
अच्युतः
प्रथितः प्राणः
प्राणदो वासवानुजः
।
अपांनिधिरधिष्ठानमप्रमत्तः
प्रतिष्ठितः ॥
४८ ॥
स्कन्दः
स्कन्दधरो धुर्यो
वरदो वायुवाहनः
।
वासुदेवो
बृहद्भानुरादिदेवः
पुरन्दरः ॥ ४९
॥
अशोकस्तारणस्तारः
शूरः शौरिर्जनेश्वरः
।
अनुकूलः
शतावर्तः पद्मी
पद्मनिभेक्षणः
॥ ५० ॥
पद्मनाभोऽरविन्दाक्षः
पद्मगर्भः शरीरभृत्
।
महर्द्धिरृद्धो
वृद्धात्मा महाक्षो
गरुडध्वजः ॥ ५१
॥
अतुलः
शरभो भीमः समयज्ञो
हविर्हरिः ।
सर्वलक्षणलक्षण्यो
लक्ष्मीवान् समितिञ्जयः
॥ ५२ ॥
विक्षरो
रोहितो मार्गो
हेतुर्दामोदरः
सहः ।
महीधरो
महाभागो वेगवानमिताशनः
॥ ५३ ॥
उद्भवः
क्षोभणो देवः श्रीगर्भः
परमेश्वरः ।
करणं
कारणं कर्ता विकर्ता
गहनो गुहः ॥ ५४
॥
व्यवसायो
व्यवस्थानः संस्थानः
स्थानदो ध्रुवः
।
परर्द्धिः
परमस्पष्टस्तुष्टः
पुष्टः शुभेक्षणः
॥ ५५ ॥
रामो
विरामो विरजो मार्गो
नेयो नयोऽनयः ।
वीरः
शक्तिमतां श्रेष्ठो
धर्मो धर्मविदुत्तमः
॥ ५६ ॥
वैकुण्ठः
पुरुषः प्राणः
प्राणदः प्रणवः
पृथुः ।
हिरण्यगर्भः
शत्रुघ्नो व्याप्तो
वायुरधोक्षजः
॥ ५७ ॥
ऋतुः
सुदर्शनः कालः
परमेष्ठी परिग्रहः
।
उग्रः
संवत्सरो दक्षो
विश्रामो विश्वदक्षिणः
॥ ५८ ॥
विस्तारः
स्थावरस्थाणुः
प्रमाणं बीजमव्ययम्
।
अर्थोऽनर्थो
महाकोशो महाभोगो
महाधनः ॥ ५९ ॥
अनिर्विण्णः
स्थविष्ठोऽभूर्धर्मयूपो
महामखः ।
नक्षत्रनेमिर्नक्षत्री
क्षमः क्षामः समीहनः
॥ ६० ॥
यज्ञ
इज्यो महेज्यश्च
क्रतुः सत्रं सतां
गतिः ।
सर्वदर्शी
विमुक्तात्मा
सर्वज्ञो ज्ञानमुत्तमम्
॥ ६१ ॥
सुव्रतः
सुमुखः सूक्ष्मः
सुघोषः सुखदः सुहृत्
।
मनोहरो
जितक्रोधो वीरबाहुर्विदारणः
॥ ६२ ॥
स्वापनः
स्ववशो व्यापी
नैकात्मा नैककर्मकृत्
।
वत्सरो
वत्सलो वत्सी रत्नगर्भो
धनेश्वरः ॥ ६३
॥
धर्मगुब्धर्मकृद्धर्मी
सदसत्क्षरमक्षरम्
।
अविज्ञाता
सहस्रांशुर्विधाता
कृतलक्षणः ॥ ६४
॥
गभस्तिनेमिः
सत्त्वस्थः सिंहो
भूतमहेश्वरः ।
आदिदेवो
महादेवो देवेशो
देवभृद्गुरुः
॥ ६५ ॥
उत्तरो
गोपतिर्गोप्ता
ज्ञानगम्यः पुरातनः
।
शरीरभूतभृद्भोक्ता
कपीन्द्रो भूरिदक्षिणः
॥ ६६ ॥
सोमपोऽमृतपः
सोमः पुरुजित्पुरुसत्तमः
।
विनयो
जयः सत्यसंधो दाशार्हः
सात्त्वतांपतिः
॥ ६७ ॥
जीवो
विनयिता साक्षी
मुकुन्दोऽमितविक्रमः
।
अम्भोनिधिरनन्तात्मा
महोदधिशयोऽन्तकः
॥ ६८ ॥
अजो
महार्हः स्वाभाव्यो
जितामित्रः प्रमोदनः
।
आनन्दो
नन्दनो नन्दः सत्यधर्मा
त्रिविक्रमः ॥
६९ ॥
महर्षिः
कपिलाचार्यः कृतज्ञो
मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो
महाशृङ्गः कृतान्तकृत्
॥ ७० ॥
महावराहो
गोविन्दः सुषेणः
कनकाङ्गदी ।
गुह्यो
गभीरो गहनो गुप्तश्चक्रगदाधरः
॥ ७१ ॥
वेधाः
स्वाङ्गोऽजितः
कृष्णो दृढः संकर्षणोऽच्युतः
।
वरुणो
वारुणो वृक्षः
पुष्कराक्षो महामनाः
॥ ७२ ॥
भगवान्
भगहाऽऽनन्दी वनमाली
हलायुधः ।
आदित्यो
ज्योतिरादित्यः
सहिष्णुर्गतिसत्तमः
॥ ७३ ॥
सुधन्वा
खण्डपरशुर्दारुणो
द्रविणप्रदः ।
दिवःस्पृक्
सर्वदृग्व्यासो
वाचस्पतिरयोनिजः
॥ ७४ ॥
त्रिसामा
सामगः साम निर्वाणं
भेषजं भिषक् ।
संन्यासकृच्छमः
शान्तो निष्ठा
शान्तिः परायणम्
॥ ७५ ॥
शुभाङ्गः
शान्तिदः स्रष्टा
कुमुदः कुवलेशयः
।
गोहितो
गोपतिर्गोप्ता
वृषभाक्षो वृषप्रियः
॥ ७६ ॥
अनिवर्ती
निवृत्तात्मा
संक्षेप्ता क्षेमकृच्छिवः
।
श्रीवत्सवक्षाः
श्रीवासः श्रीपतिः
श्रीमतांवरः ॥
७७ ॥
श्रीदः
श्रीशः श्रीनिवासः
श्रीनिधिः श्रीविभावनः
।
श्रीधरः
श्रीकरः श्रेयः
श्रीमाँल्लोकत्रयाश्रयः
॥ ७८ ॥
स्वक्षः
स्वङ्गः शतानन्दो
नन्दिर्ज्योतिर्गणेश्वरः
।
विजितात्माऽविधेयात्मा
सत्कीर्तिश्छिन्नसंशयः
॥ ७९ ॥
उदीर्णः
सर्वतश्चक्षुरनीशः
शाश्वतस्थिरः
।
भूशयो
भूषणो भूतिर्विशोकः
शोकनाशनः ॥ ८०
॥
अर्चिष्मानर्चितः
कुम्भो विशुद्धात्मा
विशोधनः ।
अनिरुद्धोऽप्रतिरथः
प्रद्युम्नोऽमितविक्रमः
॥ ८१ ॥
कालनेमिनिहा
वीरः शौरिः शूरजनेश्वरः
।
त्रिलोकात्मा
त्रिलोकेशः केशवः
केशिहा हरिः ॥
८२ ॥
कामदेवः
कामपालः कामी कान्तः
कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो
धनंजयः ॥ ८३ ॥
ब्रह्मण्यो
ब्रह्मकृद् ब्रह्मा
ब्रह्म ब्रह्मविवर्धनः
।
ब्रह्मविद्
ब्राह्मणो ब्रह्मी
ब्रह्मज्ञो ब्राह्मणप्रियः
॥ ८४ ॥
महाक्रमो
महाकर्मा महातेजा
महोरगः ।
महाक्रतुर्महायज्वा
महायज्ञो महाहविः
॥ ८५ ॥
स्तव्यः
स्तवप्रियः स्तोत्रं
स्तुतिः स्तोता
रणप्रियः ।
पूर्णः
पूरयिता पुण्यः
पुण्यकीर्तिरनामयः
॥ ८६ ॥
मनोजवस्तीर्थकरो
वसुरेता वसुप्रदः
।
वसुप्रदो
वासुदेवो वसुर्वसुमना
हविः ॥ ८७ ॥
सद्गतिः
सत्कृतिः सत्ता
सद्भूतिः सत्परायणः
।
शूरसेनो
यदुश्रेष्ठः सन्निवासः
सुयामुनः ॥ ८८
॥
भूतावासो
वासुदेवः सर्वासुनिलयोऽनलः
।
दर्पहा
दर्पदो दृप्तो
दुर्धरोऽथापराजितः
॥ ८९ ॥
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्
।
अनेकमूर्तिरव्यक्तः
शतमूर्तिः शताननः
॥ ९० ॥
एको
नैकः सवः कः किं
यत् तत्पदमनुत्तमम्
।
लोकबन्धुर्लोकनाथो
माधवो भक्तवत्सलः
॥ ९१ ॥
सुवर्णवर्णो
हेमाङ्गो वराङ्गश्चन्दनाङ्गदी
।
वीरहा
विषमः शून्यो घृताशीरचलश्चलः
॥ ९२ ॥
अमानी
मानदो मान्यो लोकस्वामी
त्रिलोकधृक् ।
सुमेधा
मेधजो धन्यः सत्यमेधा
धराधरः ॥ ९३ ॥
तेजोवृषो
द्युतिधरः सर्वशस्त्रभृतां
वरः ।
प्रग्रहो
निग्रहो व्यग्रो
नैकशृङ्गो गदाग्रजः
॥ ९४ ॥
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः
।
चतुरात्मा
चतुर्भावश्चतुर्वेदविदेकपात्
॥ ९५ ॥
समावर्तोऽनिवृत्तात्मा
दुर्जयो दुरतिक्रमः
।
दुर्लभो
दुर्गमो दुर्गो
दुरावासो दुरारिहा
॥ ९६ ॥
शुभाङ्गो
लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः
।
इन्द्रकर्मा
महाकर्मा कृतकर्मा
कृतागमः ॥ ९७ ॥
उद्भवः
सुन्दरः सुन्दो
रत्ननाभः सुलोचनः
।
अर्को
वाजसनः शृङ्गी
जयन्तः सर्वविज्जयी
॥ ९८ ॥
सुवर्णबिन्दुरक्षोभ्यः
सर्ववागीश्वरेश्वरः
।
महाह्रदो
महागर्तो महाभूतो
महानिधिः ॥ ९९
॥
कुमुदः
कुन्दरः कुन्दः
पर्जन्यः पावनोऽनिलः
।
अमृतांशोऽमृतवपुः
सर्वज्ञः सर्वतोमुखः
॥ १०० ॥
सुलभः
सुव्रतः सिद्धः
शत्रुजिच्छत्रुतापनः
।
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः
॥ १०१ ॥
सहस्रार्चिः
सप्तजिह्वः सप्तैधाः
सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो
भयकृद्भयनाशनः
॥ १०२ ॥
अणुर्बृहत्कृशः
स्थूलो गुणभृन्निर्गुणो
महान् ।
अधृतः
स्वधृतः स्वास्यः
प्राग्वंशो वंशवर्धनः
॥ १०३ ॥
भारभृत्
कथितो योगी योगीशः
सर्वकामदः ।
आश्रमः
श्रमणः क्षामः
सुपर्णो वायुवाहनः
॥ १०४ ॥
धनुर्धरो
धनुर्वेदो दण्डो
दमयिता दमः ।
अपराजितः
सर्वसहो नियन्ताऽनियमोऽयमः
॥ १०५ ॥
सत्त्ववान्
सात्त्विकः सत्यः
सत्यधर्मपरायणः
।
अभिप्रायः
प्रियार्होऽर्हः
प्रियकृत् प्रीतिवर्धनः
॥ १०६ ॥
विहायसगतिर्ज्योतिः
सुरुचिर्हुतभुग्विभुः
।
रविर्विरोचनः
सूर्यः सविता रविलोचनः
॥ १०७ ॥
अनन्तो
हुतभुग्भोक्ता
सुखदो नैकजोऽग्रजः
।
अनिर्विण्णः
सदामर्षी लोकाधिष्ठानमद्भुतः
॥ १०८ ॥
सनात्सनातनतमः
कपिलः कपिरव्ययः
।
स्वस्तिदः
स्वस्तिकृत्स्वस्ति
स्वस्तिभुक्स्वस्तिदक्षिणः
॥१०९ ॥
अरौद्रः
कुण्डली चक्री
विक्रम्यूर्जितशासनः
।
शब्दातिगः
शब्दसहः शिशिरः
शर्वरीकरः ॥ ११०
॥
अक्रूरः
पेशलो दक्षो दक्षिणः
क्षमिणांवरः ।
विद्वत्तमो
वीतभयः पुण्यश्रवणकीर्तनः
॥ १११ ॥
उत्तारणो
दुष्कृतिहा पुण्यो
दुःस्वप्ननाशनः
।
वीरहा
रक्षणः सन्तो जीवनः
पर्यवस्थितः ॥
११२ ॥
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः
।
चतुरश्रो
गभीरात्मा विदिशो
व्यादिशो दिशः
॥ ११३ ॥
अनादिर्भूर्भुवो
लक्ष्मीः सुवीरो
रुचिराङ्गदः ।
जननो
जनजन्मादिर्भीमो
भीमपराक्रमः ॥
११४ ॥
आधारनिलयोऽधाता
पुष्पहासः प्रजागरः
।
ऊर्ध्वगः
सत्पथाचारः प्राणदः
प्रणवः पणः ॥ ११५
॥
प्रमाणं
प्राणनिलयः प्राणभृत्प्राणजीवनः
।
तत्त्वं
तत्त्वविदेकात्मा
जन्ममृत्युजरातिगः
॥ ११६ ॥
भूर्भुवःस्वस्तरुस्तारः
सविता प्रपितामहः
।
यज्ञो
यज्ञपतिर्यज्वा
यज्ञाङ्गो यज्ञवाहनः
॥ ११७ ॥
यज्ञभृद्
यज्ञकृद् यज्ञी
यज्ञभुग् यज्ञसाधनः
।
यज्ञान्तकृद्
यज्ञगुह्यमन्नमन्नाद
एव च ॥ ११८ ॥
आत्मयोनिः
स्वयंजातो वैखानः
सामगायनः ।
देवकीनन्दनः
स्रष्टा क्षितीशः
पापनाशनः ॥ ११९
॥
शङ्खभृन्नन्दकी
चक्री शार्ङ्गधन्वा
गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः
सर्वप्रहरणायुधः
॥ १२० ॥
सर्वप्रहरणायुध
ॐ नम इति ।
भीष्म
उवाच
इतीदं
कीर्तनीयस्य केशवस्य
महात्मनः ।
नाम्नां
सहस्रं दिव्यानामशेषेण
प्रकीर्तितम्
॥ १२१ ॥
य इदं
शृणुयान्नित्यं
यश्चापि परिकीर्तयेत्
।
नाशुभं
प्राप्नुयात्किंचित्सोऽमुत्रेह
च मानवः ॥ १२२ ॥
वेदान्तगो
ब्राह्मणः स्यात्क्षत्रियो
विजयी भवेत् ।
वैश्यो
धनसमृद्धः स्याच्छूद्रः
सुखमवाप्नुयात्
॥ १२३ ॥
धर्मार्थी
प्राप्नुयाद्धर्ममर्थार्थी
चार्थमाप्नुयात्
।
कामानवाप्नुयात्कामी
प्रजार्थी प्राप्नुयात्प्रजाम्
॥ १२४ ॥
भक्तिमान्
यः सदोत्थाय शुचिस्तद्गतमानसः
।
सहस्रं
वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत्
॥ १२५ ॥
यशः
प्राप्नोति विपुलं
ज्ञातिप्राधान्यमेव
च ।
अचलां
श्रियमाप्नोति
श्रेयः प्राप्नोत्यनुत्तमम्
॥ १२६ ॥
न भयं
क्वचिदाप्नोति
वीर्यं तेजश्च
विन्दति ।
भवत्यरोगो
द्युतिमान्बलरूपगुणान्वितः
॥ १२७ ॥
रोगार्तो
मुच्यते रोगाद्बद्धो
मुच्येत बन्धनात्
।
भयान्मुच्येत
भीतस्तु मुच्येतापन्न
आपदः ॥ १२८ ॥
दुर्गाण्यतितरत्याशु
पुरुषः पुरुषोत्तमम्
।
स्तुवन्नामसहस्रेण
नित्यं भक्तिसमन्वितः
॥ १२९ ॥
वासुदेवाश्रयो
मर्त्यो वासुदेवपरायणः
।
सर्वपापविशुद्धात्मा
याति ब्रह्म सनातनम्
॥ १३० ॥
न वासुदेवभक्तानामशुभं
विद्यते क्वचित्
।
जन्ममृत्युजराव्याधिभयं
नैवोपजायते ॥ १३१
॥
इमं
स्तवमधीयानः श्रद्धाभक्तिसमन्वितः
।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः
॥ १३२ ॥
न क्रोधो
न च मात्सर्यं
न लोभो नाशुभा
मतिः ।
भवन्ति
कृत पुण्यानां
भक्तानां पुरुषोत्तमे
॥ १३३ ॥
द्यौः
सचन्द्रार्कनक्षत्रा
खं दिशो भूर्महोदधिः
।
वासुदेवस्य
वीर्येण विधृतानि
महात्मनः ॥ १३४
॥
ससुरासुरगन्धर्वं
सयक्षोरगराक्षसम्
।
जगद्वशे
वर्ततेदं कृष्णस्य
सचराचरम् ॥ १३५
॥
इन्द्रियाणि
मनो बुद्धिः सत्त्वं
तेजो बलं धृतिः
।
वासुदेवात्मकान्याहुः
क्षेत्रं क्षेत्रज्ञ
एव च ॥ १३६ ॥
सर्वागमानामाचारः
प्रथमं परिकल्पते
।
आचारप्रभवो
धर्मो धर्मस्य
प्रभुरच्युतः
॥ १३७ ॥
ऋषयः
पितरो देवा महाभूतानि
धातवः ।
जङ्गमाजङ्गमं
चेदं जगन्नारायणोद्भवम्
॥ १३८ ॥
योगो
ज्ञानं तथा सांख्यं
विद्याः शिल्पादि
कर्म च ।
वेदाः
शास्त्राणि विज्ञानमेतत्सर्वं
जनार्दनात् ॥ १३९
॥
एको
विष्णुर्महद्भूतं
पृथग्भूतान्यनेकशः
।
त्रींल्लोकान्व्याप्य
भूतात्मा भुङ्क्ते
विश्वभुगव्ययः
॥ १४० ॥
इमं
स्तवं भगवतो विष्णोर्व्यासेन
कीर्तितम् ।
पठेद्य
इच्छेत्पुरुषः
श्रेयः प्राप्तुं
सुखानि च ॥ १४१
॥
विश्वेश्वरमजं
देवं जगतः प्रभुमव्ययम्
।
भजन्ति
ये पुष्कराक्षं
न ते यान्ति पराभवम्
॥ १४२ ॥
न ते
यान्ति पराभवम
ॐ नम इति ।
॥ हरिः
ॐ तत्सत् ॥