॥
श्रीविष्णुसहस्रनामस्तोत्रम्
॥
ॐ
॥
श्रीविष्णुसहस्रनामस्तोत्रम्
॥
यस्य
स्मरणमात्रेण
जन्मसंसारबन्धनात्
।
विमुच्यते
नमस्तस्मै
विष्णवे
प्रभविष्णवे
॥
नमः
समस्तभूतानामादिभूताय
भूभृते ।
अनेकरुपरुपाय
विष्णवे
प्रभविष्णवे
॥
श्रीवैशम्पायन
उवाच
श्रुत्वा
धर्मानशेषेण
पावनानि च
सर्वशः ।
युधिष्ठिरः
शान्तनवं
पुनरेवाभ्यभाषत
॥ १ ॥
युधिष्ठिर
उवाच
किमेकं
दैवतं लोके
किं वाप्येकं
परायणम् ।
स्तुवन्तः
कं कमर्चन्तः
प्राप्नुयुर्मानवाः
शुभम् ॥ २ ॥
को
धर्मः
सर्वधर्माणां
भवतः परमो मतः
।
किं
जपन्मुच्यते
जन्तुर्जन्मसंसारबन्धनात्
॥ ३ ॥
भीष्म
उवाच
जगत्प्रभुं
देवदेवमनन्तं
पुरुषोत्तमम्
।
स्तुवन
नामसहस्रेण
पुरुषः
सततोत्थितः ॥ ४
॥
तमेव
चार्चयन्नित्यं
भक्त्या
पुरुषमव्ययम्
।
ध्यायन
स्तुवन
नमस्यंश्च
यजमानस्तमेव
च ॥ ५ ॥
अनादिनिधनं
विष्णुं
सर्वलोकमहेश्वरम्
।
लोकाध्यक्षं
स्तुवन्नित्यं
सर्वदुःखातिगो
भवेत् ॥ ६ ॥
ब्रह्मण्यं
सर्वधर्मज्ञं
लोकानां
कीर्तिवर्धनम्
।
लोकनाथं
महद्भूतं
सर्वभूतभवोद्भवम्
॥ ७ ॥
एष मे
सर्वधर्माणां
धर्मोऽधिकतमो
मतः ।
यद्भक्त्या
पुण्डरीकाक्षं
स्तवैरर्चेन्नरः
सदा ॥ ८ ॥
परमं
यो महत्तेजः
परमं यो
महत्तपः ।
परमं
यो महद्ब्रह्म
परमं यः
परायणम् ॥ ९ ॥
पवित्राणां
पवित्रं यो
मङ्गलानां च
मङ्गलम् ।
दैवतं
दैवतानां च
भूतानां
योऽव्ययः
पिता ॥ १० ॥
यतः
सर्वाणि
भूतानि
भवन्त्यादियुगागमे
।
यस्मिंश्च
प्रलयं
यान्ति
पुनरेव
युगक्षये ॥ ११
॥
तस्य
लोकप्रधानस्य
जगन्नाथस्य
भूपते ।
विष्णोर्नामसहस्रं
मे शृणु
पापभयापहम् ॥ १२
॥
यानि
नामानि
गौणानि
विख्यातानि
महात्मनः ।
ऋषिभिः
परिगीतानि
तानि
वक्ष्यामि
भूतये ॥ १३ ॥
ॐ
विश्वं
विष्णुर्वषट्कारो
भूतभव्यभवत्प्रभुः
।
भूतकृद्भूतभृद्भावो
भूतात्मा
भूतभावनः ॥ १४
॥
पूतात्मा
परमात्मा च
मुक्तानां
परमा गतिः ।
अव्ययः
पुरुषः
साक्षी
क्षेत्रज्ञोऽक्षर
एव च ॥ १५ ॥
योगो
योगविदां
नेता
प्रधानपुरुषेश्वरः
।
नारसिंहवपुः
श्रीमान्
केशवः
पुरुषोत्तमः ॥
१६ ॥
सर्वः
शर्वः शिवः
स्थाणुर्भूतादिर्निधिरव्ययः
।
संभवो
भावनो भर्ता
प्रभवः
प्रभुरीश्वरः
॥ १७ ॥
स्वयंभूः
शम्भुरादित्यः
पुष्कराक्षो
महास्वनः ।
अनादिनिधनो
धाता विधाता
धातुरुत्तमः
॥ १८ ॥
अप्रमेयो
हृषीकेशः
पद्मनाभोऽमरप्रभुः
।
विश्वकर्मा
मनुस्त्वष्टा
स्थविष्ठः
स्थविरो
ध्रुवः ॥ १९ ॥
अग्राह्यः
शाश्वतः
कृष्णो
लोहिताक्षः
प्रतर्दनः ।
प्रभूतस्त्रिककुब्धाम
पवित्रं
मङ्गलं परम् ॥
२० ॥
ईशानः प्राणदः
प्राणो
ज्येष्ठः
श्रेष्ठः
प्रजापतिः ।
हिरण्यगर्भो
भूगर्भो
माधवो
मधुसूदनः ॥ २१
॥
ईश्वरो
विक्रमी
धन्वी मेधावी
विक्रमः क्रमः
।
अनुत्तमो
दुराधर्षः
कृतज्ञः
कृतिरात्मवान्
॥ २२ ॥
सुरेशः
शरणं शर्म
विश्वरेताः
प्रजाभवः ।
अहः
संवत्सरो
व्यालः
प्रत्ययः
सर्वदर्शनः ॥ २३
॥
अजः
सर्वेश्वरः
सिद्धः
सिद्धिः
सर्वादिरच्युतः
।
वृषाकपिरमेयात्मा
सर्वयोगविनिःसृतः
॥ २४ ॥
वसुर्वसुमनाः
सत्यः
समात्माऽसम्मितः
समः ।
अमोघः
पुण्डरीकाक्षो
वृषकर्मा
वृषाकृतिः ॥ २५
॥
रुद्रो
बहुशिरा
बभ्रुर्विश्वयोनिः
शुचिश्रवाः ।
अमृतः
शाश्वत
स्थाणुर्वरारोहो
महातपाः ॥ २६ ॥
सर्वगः
सर्वविद्भानुर्विष्वक्सेनो
जनार्दनः ।
वेदो
वेदविदव्यङ्गो
वेदाङ्गो
वेदवित् कविः
॥ २७ ॥
लोकाध्यक्षः
सुराध्यक्षो
धर्माध्यक्षः
कृताकृतः ।
चतुरात्मा
चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः
॥ २८ ॥
भ्राजिष्णुर्भोजनं
भोक्ता
सहिष्णुर्जगदादिजः
।
अनघो
विजयो जेता
विश्वयोनिः
पुनर्वसुः ॥ २९
॥
उपेन्द्रो
वामनः
प्रांशुरमोघः
शुचिरूर्जितः
।
अतीन्द्रः
संग्रहः
सर्गो
धृतात्मा
नियमो यमः ॥ ३०
॥
वेद्यो
वैद्यः
सदायोगी
वीरहा माधवो
मधुः ।
अतीन्द्रियो
महामायो
महोत्साहो
महाबलः ॥ ३१ ॥
महाबुद्धिर्महावीर्यो
महाशक्तिर्महाद्युतिः
।
अनिर्देश्यवपुः
श्रीमानमेयात्मा
महाद्रिधृक्
॥ ३२ ॥
महेष्वासो
महीभर्ता
श्रीनिवासः
सतां गतिः ।
अनिरुद्धः
सुरानन्दो
गोविन्दो
गोविदां पतिः
॥ ३३ ॥
मरीचिर्दमनो
हंसः सुपर्णो
भुजगोत्तमः ।
हिरण्यनाभः
सुतपाः
पद्मनाभः
प्रजापतिः ॥ ३४
॥
अमृत्युः
सर्वदृक्
सिंहः
सन्धाता
सन्धिमान्
स्थिरः ।
अजो
दुर्मर्षणः
शास्ता
विश्रुतात्मा
सुरारिहा ॥ ३५
॥
गुरुर्गुरुतमो
धाम सत्यः
सत्यपराक्रमः
।
निमिषोऽनिमिषः
स्रग्वी
वाचस्पतिरुदारधीः
॥ ३६ ॥
अग्रणीर्ग्रामणीः
श्रीमान्
न्यायो नेता समीरणः
।
सहस्रमूर्धा
विश्वात्मा
सहस्राक्षः
सहस्रपात् ॥ ३७
॥
आवर्तनो
निवृत्तात्मा
संवृतः
संप्रमर्दनः
।
अहः
संवर्तको
वह्निरनिलो
धरणीधरः ॥ ३८ ॥
सुप्रसादः
प्रसन्नात्मा
विश्वधृग्विश्वभुग्विभुः
।
सत्कर्ता
सत्कृतः
साधुर्जह्नुर्नारायणो
नरः ॥ ३९ ॥
असंख्येयोऽप्रमेयात्मा
विशिष्टः
शिष्टकृच्छुचिः
।
सिद्धार्थः
सिद्धसंकल्पः
सिद्धिदः
सिद्धिसाधनः
॥ ४० ॥
वृषाही
वृषभो
विष्णुर्वृषपर्वा
वृषोदरः ।
वर्धनो
वर्धमानश्च
विविक्तः
श्रुतिसागरः ॥
४१ ॥
सुभुजो
दुर्धरो
वाग्मी
महेन्द्रो
वसुदो वसुः ।
नैकरूपो
बृहद्रूपः
शिपिविष्टः
प्रकाशनः ॥ ४२
॥
ओजस्तेजोद्युतिधरः
प्रकाशात्मा
प्रतापनः ।
ऋद्धः
स्पष्टाक्षरो
मन्त्रश्चन्द्रांशुर्भास्करद्युतिः
॥ ४३ ॥
अमृतांशूद्भवो
भानुः
शशबिन्दुः
सुरेश्वरः ।
औषधं
जगतः सेतुः
सत्यधर्मपराक्रमः
॥ ४४ ॥
भूतभव्यभवन्नाथः
पवनः
पावनोऽनलः ।
कामहा
कामकृत्कान्तः
कामः
कामप्रदः
प्रभुः ॥ ४५ ॥
युगादिकृद्युगावर्तो
नैकमायो
महाशनः ।
अदृश्यो
व्यक्तरूपश्च
सहस्रजिदनन्तजित्
॥ ४६ ॥
इष्टोऽविशिष्टः
शिष्टेष्टः
शिखण्डी नहुषो
वृषः ।
क्रोधहा
क्रोधकृत्कर्ता
विश्वबाहुर्महीधरः
॥ ४७ ॥
अच्युतः
प्रथितः
प्राणः
प्राणदो
वासवानुजः ।
अपांनिधिरधिष्ठानमप्रमत्तः
प्रतिष्ठितः ॥
४८ ॥
स्कन्दः
स्कन्दधरो
धुर्यो वरदो
वायुवाहनः ।
वासुदेवो
बृहद्भानुरादिदेवः
पुरन्दरः ॥ ४९
॥
अशोकस्तारणस्तारः
शूरः
शौरिर्जनेश्वरः
।
अनुकूलः
शतावर्तः
पद्मी
पद्मनिभेक्षणः
॥ ५० ॥
पद्मनाभोऽरविन्दाक्षः
पद्मगर्भः
शरीरभृत् ।
महर्द्धिरृद्धो
वृद्धात्मा
महाक्षो गरुडध्वजः
॥ ५१ ॥
अतुलः
शरभो भीमः
समयज्ञो
हविर्हरिः ।
सर्वलक्षणलक्षण्यो
लक्ष्मीवान्
समितिञ्जयः ॥ ५२
॥
विक्षरो
रोहितो
मार्गो
हेतुर्दामोदरः
सहः ।
महीधरो
महाभागो
वेगवानमिताशनः
॥ ५३ ॥
उद्भवः
क्षोभणो देवः
श्रीगर्भः
परमेश्वरः ।
करणं
कारणं कर्ता
विकर्ता गहनो
गुहः ॥ ५४ ॥
व्यवसायो
व्यवस्थानः
संस्थानः
स्थानदो
ध्रुवः ।
परर्द्धिः
परमस्पष्टस्तुष्टः
पुष्टः शुभेक्षणः
॥ ५५ ॥
रामो
विरामो विरजो
मार्गो नेयो
नयोऽनयः ।
वीरः
शक्तिमतां
श्रेष्ठो
धर्मो
धर्मविदुत्तमः
॥ ५६ ॥
वैकुण्ठः
पुरुषः
प्राणः
प्राणदः
प्रणवः पृथुः
।
हिरण्यगर्भः
शत्रुघ्नो व्याप्तो
वायुरधोक्षजः
॥ ५७ ॥
ऋतुः
सुदर्शनः
कालः
परमेष्ठी
परिग्रहः ।
उग्रः
संवत्सरो
दक्षो
विश्रामो
विश्वदक्षिणः
॥ ५८ ॥
विस्तारः
स्थावरस्थाणुः
प्रमाणं
बीजमव्ययम् ।
अर्थोऽनर्थो
महाकोशो
महाभोगो
महाधनः ॥ ५९ ॥
अनिर्विण्णः
स्थविष्ठोऽभूर्धर्मयूपो
महामखः ।
नक्षत्रनेमिर्नक्षत्री
क्षमः क्षामः
समीहनः ॥ ६० ॥
यज्ञ
इज्यो
महेज्यश्च
क्रतुः सत्रं
सतां गतिः ।
सर्वदर्शी
विमुक्तात्मा
सर्वज्ञो
ज्ञानमुत्तमम्
॥ ६१ ॥
सुव्रतः
सुमुखः
सूक्ष्मः
सुघोषः सुखदः
सुहृत् ।
मनोहरो
जितक्रोधो
वीरबाहुर्विदारणः
॥ ६२ ॥
स्वापनः
स्ववशो
व्यापी नैकात्मा
नैककर्मकृत्
।
वत्सरो
वत्सलो वत्सी
रत्नगर्भो
धनेश्वरः ॥ ६३
॥
धर्मगुब्धर्मकृद्धर्मी
सदसत्क्षरमक्षरम्
।
अविज्ञाता
सहस्रांशुर्विधाता
कृतलक्षणः ॥ ६४
॥
गभस्तिनेमिः
सत्त्वस्थः
सिंहो
भूतमहेश्वरः
।
आदिदेवो
महादेवो
देवेशो
देवभृद्गुरुः
॥ ६५ ॥
उत्तरो
गोपतिर्गोप्ता
ज्ञानगम्यः
पुरातनः ।
शरीरभूतभृद्भोक्ता
कपीन्द्रो
भूरिदक्षिणः
॥ ६६ ॥
सोमपोऽमृतपः
सोमः
पुरुजित्पुरुसत्तमः
।
विनयो
जयः सत्यसंधो
दाशार्हः
सात्त्वतांपतिः
॥ ६७ ॥
जीवो
विनयिता
साक्षी
मुकुन्दोऽमितविक्रमः
।
अम्भोनिधिरनन्तात्मा
महोदधिशयोऽन्तकः
॥ ६८ ॥
अजो महार्हः
स्वाभाव्यो
जितामित्रः
प्रमोदनः ।
आनन्दो
नन्दनो नन्दः
सत्यधर्मा
त्रिविक्रमः
॥ ६९ ॥
महर्षिः
कपिलाचार्यः
कृतज्ञो
मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो
महाशृङ्गः
कृतान्तकृत्
॥ ७० ॥
महावराहो
गोविन्दः
सुषेणः
कनकाङ्गदी ।
गुह्यो
गभीरो गहनो
गुप्तश्चक्रगदाधरः
॥ ७१ ॥
वेधाः
स्वाङ्गोऽजितः
कृष्णो दृढः
संकर्षणोऽच्युतः
।
वरुणो
वारुणो
वृक्षः
पुष्कराक्षो
महामनाः ॥ ७२ ॥
भगवान्
भगहाऽऽनन्दी
वनमाली
हलायुधः ।
आदित्यो
ज्योतिरादित्यः
सहिष्णुर्गतिसत्तमः
॥ ७३ ॥
सुधन्वा
खण्डपरशुर्दारुणो
द्रविणप्रदः
।
दिवःस्पृक्
सर्वदृग्व्यासो
वाचस्पतिरयोनिजः
॥ ७४ ॥
त्रिसामा
सामगः साम
निर्वाणं
भेषजं भिषक् ।
संन्यासकृच्छमः
शान्तो
निष्ठा
शान्तिः परायणम्
॥ ७५ ॥
शुभाङ्गः
शान्तिदः
स्रष्टा
कुमुदः
कुवलेशयः ।
गोहितो
गोपतिर्गोप्ता
वृषभाक्षो
वृषप्रियः ॥ ७६
॥
अनिवर्ती
निवृत्तात्मा
संक्षेप्ता
क्षेमकृच्छिवः
।
श्रीवत्सवक्षाः
श्रीवासः
श्रीपतिः
श्रीमतांवरः
॥ ७७ ॥
श्रीदः
श्रीशः
श्रीनिवासः
श्रीनिधिः
श्रीविभावनः
।
श्रीधरः
श्रीकरः
श्रेयः
श्रीमाँल्लोकत्रयाश्रयः
॥ ७८ ॥
स्वक्षः
स्वङ्गः
शतानन्दो
नन्दिर्ज्योतिर्गणेश्वरः
।
विजितात्माऽविधेयात्मा
सत्कीर्तिश्छिन्नसंशयः
॥ ७९ ॥
उदीर्णः
सर्वतश्चक्षुरनीशः
शाश्वतस्थिरः
।
भूशयो
भूषणो
भूतिर्विशोकः
शोकनाशनः ॥ ८०
॥
अर्चिष्मानर्चितः
कुम्भो
विशुद्धात्मा
विशोधनः ।
अनिरुद्धोऽप्रतिरथः
प्रद्युम्नोऽमितविक्रमः
॥ ८१ ॥
कालनेमिनिहा
वीरः शौरिः
शूरजनेश्वरः
।
त्रिलोकात्मा
त्रिलोकेशः
केशवः केशिहा
हरिः ॥ ८२ ॥
कामदेवः
कामपालः कामी
कान्तः
कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो
धनंजयः ॥ ८३ ॥
ब्रह्मण्यो
ब्रह्मकृद्
ब्रह्मा
ब्रह्म ब्रह्मविवर्धनः
।
ब्रह्मविद्
ब्राह्मणो
ब्रह्मी
ब्रह्मज्ञो
ब्राह्मणप्रियः
॥ ८४ ॥
महाक्रमो
महाकर्मा
महातेजा महोरगः
।
महाक्रतुर्महायज्वा
महायज्ञो
महाहविः ॥ ८५ ॥
स्तव्यः
स्तवप्रियः
स्तोत्रं
स्तुतिः स्तोता
रणप्रियः ।
पूर्णः
पूरयिता
पुण्यः
पुण्यकीर्तिरनामयः
॥ ८६ ॥
मनोजवस्तीर्थकरो
वसुरेता
वसुप्रदः ।
वसुप्रदो
वासुदेवो
वसुर्वसुमना
हविः ॥ ८७ ॥
सद्गतिः
सत्कृतिः
सत्ता सद्भूतिः
सत्परायणः ।
शूरसेनो
यदुश्रेष्ठः
सन्निवासः
सुयामुनः ॥ ८८
॥
भूतावासो
वासुदेवः
सर्वासुनिलयोऽनलः
।
दर्पहा
दर्पदो
दृप्तो
दुर्धरोऽथापराजितः
॥ ८९ ॥
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्
।
अनेकमूर्तिरव्यक्तः
शतमूर्तिः
शताननः ॥ ९० ॥
एको
नैकः सवः कः
किं यत्
तत्पदमनुत्तमम्
।
लोकबन्धुर्लोकनाथो
माधवो
भक्तवत्सलः ॥ ९१
॥
सुवर्णवर्णो
हेमाङ्गो
वराङ्गश्चन्दनाङ्गदी
।
वीरहा
विषमः शून्यो
घृताशीरचलश्चलः
॥ ९२ ॥
अमानी
मानदो मान्यो
लोकस्वामी
त्रिलोकधृक्
।
सुमेधा
मेधजो धन्यः
सत्यमेधा
धराधरः ॥ ९३ ॥
तेजोवृषो
द्युतिधरः
सर्वशस्त्रभृतां
वरः ।
प्रग्रहो
निग्रहो
व्यग्रो
नैकशृङ्गो
गदाग्रजः ॥ ९४
॥
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः
।
चतुरात्मा
चतुर्भावश्चतुर्वेदविदेकपात्
॥ ९५ ॥
समावर्तोऽनिवृत्तात्मा
दुर्जयो
दुरतिक्रमः ।
दुर्लभो
दुर्गमो
दुर्गो
दुरावासो
दुरारिहा ॥ ९६
॥
शुभाङ्गो
लोकसारङ्गः
सुतन्तुस्तन्तुवर्धनः
।
इन्द्रकर्मा
महाकर्मा
कृतकर्मा
कृतागमः ॥ ९७ ॥
उद्भवः
सुन्दरः
सुन्दो
रत्ननाभः
सुलोचनः ।
अर्को
वाजसनः
शृङ्गी
जयन्तः
सर्वविज्जयी
॥ ९८ ॥
सुवर्णबिन्दुरक्षोभ्यः
सर्ववागीश्वरेश्वरः
।
महाह्रदो
महागर्तो
महाभूतो महानिधिः
॥ ९९ ॥
कुमुदः
कुन्दरः
कुन्दः
पर्जन्यः
पावनोऽनिलः ।
अमृतांशोऽमृतवपुः
सर्वज्ञः
सर्वतोमुखः ॥ १००
॥
सुलभः
सुव्रतः
सिद्धः
शत्रुजिच्छत्रुतापनः
।
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः
॥ १०१ ॥
सहस्रार्चिः
सप्तजिह्वः
सप्तैधाः
सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो
भयकृद्भयनाशनः
॥ १०२ ॥
अणुर्बृहत्कृशः
स्थूलो
गुणभृन्निर्गुणो
महान् ।
अधृतः
स्वधृतः
स्वास्यः
प्राग्वंशो
वंशवर्धनः ॥ १०३
॥
भारभृत्
कथितो योगी
योगीशः
सर्वकामदः ।
आश्रमः
श्रमणः
क्षामः
सुपर्णो
वायुवाहनः ॥ १०४
॥
धनुर्धरो
धनुर्वेदो
दण्डो दमयिता
दमः ।
अपराजितः
सर्वसहो
नियन्ताऽनियमोऽयमः
॥ १०५ ॥
सत्त्ववान्
सात्त्विकः
सत्यः
सत्यधर्मपरायणः
।
अभिप्रायः
प्रियार्होऽर्हः
प्रियकृत् प्रीतिवर्धनः
॥ १०६ ॥
विहायसगतिर्ज्योतिः
सुरुचिर्हुतभुग्विभुः
।
रविर्विरोचनः
सूर्यः सविता
रविलोचनः ॥ १०७
॥
अनन्तो
हुतभुग्भोक्ता
सुखदो
नैकजोऽग्रजः
।
अनिर्विण्णः
सदामर्षी
लोकाधिष्ठानमद्भुतः
॥ १०८ ॥
सनात्सनातनतमः
कपिलः
कपिरव्ययः ।
स्वस्तिदः
स्वस्तिकृत्स्वस्ति
स्वस्तिभुक्स्वस्तिदक्षिणः
॥१०९ ॥
अरौद्रः
कुण्डली
चक्री
विक्रम्यूर्जितशासनः
।
शब्दातिगः
शब्दसहः
शिशिरः
शर्वरीकरः ॥ ११०
॥
अक्रूरः
पेशलो दक्षो
दक्षिणः
क्षमिणांवरः
।
विद्वत्तमो
वीतभयः
पुण्यश्रवणकीर्तनः
॥ १११ ॥
उत्तारणो
दुष्कृतिहा
पुण्यो
दुःस्वप्ननाशनः
।
वीरहा
रक्षणः सन्तो
जीवनः
पर्यवस्थितः
॥ ११२ ॥
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः
।
चतुरश्रो
गभीरात्मा
विदिशो
व्यादिशो
दिशः ॥ ११३ ॥
अनादिर्भूर्भुवो
लक्ष्मीः
सुवीरो
रुचिराङ्गदः
।
जननो
जनजन्मादिर्भीमो
भीमपराक्रमः
॥ ११४ ॥
आधारनिलयोऽधाता
पुष्पहासः
प्रजागरः ।
ऊर्ध्वगः
सत्पथाचारः
प्राणदः
प्रणवः पणः ॥ ११५
॥
प्रमाणं
प्राणनिलयः
प्राणभृत्प्राणजीवनः
।
तत्त्वं
तत्त्वविदेकात्मा
जन्ममृत्युजरातिगः
॥ ११६ ॥
भूर्भुवःस्वस्तरुस्तारः
सविता
प्रपितामहः ।
यज्ञो
यज्ञपतिर्यज्वा
यज्ञाङ्गो
यज्ञवाहनः ॥ ११७
॥
यज्ञभृद्
यज्ञकृद्
यज्ञी
यज्ञभुग्
यज्ञसाधनः ।
यज्ञान्तकृद्
यज्ञगुह्यमन्नमन्नाद
एव च ॥ ११८ ॥
आत्मयोनिः
स्वयंजातो
वैखानः
सामगायनः ।
देवकीनन्दनः
स्रष्टा क्षितीशः
पापनाशनः ॥ ११९
॥
शङ्खभृन्नन्दकी
चक्री
शार्ङ्गधन्वा
गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः
सर्वप्रहरणायुधः
॥ १२० ॥
सर्वप्रहरणायुध
ॐ नम इति ।
भीष्म
उवाच
इतीदं
कीर्तनीयस्य
केशवस्य
महात्मनः ।
नाम्नां
सहस्रं
दिव्यानामशेषेण
प्रकीर्तितम्
॥ १२१ ॥
य इदं
शृणुयान्नित्यं
यश्चापि
परिकीर्तयेत्
।
नाशुभं
प्राप्नुयात्किंचित्सोऽमुत्रेह
च मानवः ॥ १२२ ॥
वेदान्तगो
ब्राह्मणः
स्यात्क्षत्रियो
विजयी भवेत् ।
वैश्यो
धनसमृद्धः
स्याच्छूद्रः
सुखमवाप्नुयात्
॥ १२३ ॥
धर्मार्थी
प्राप्नुयाद्धर्ममर्थार्थी
चार्थमाप्नुयात्
।
कामानवाप्नुयात्कामी
प्रजार्थी
प्राप्नुयात्प्रजाम्
॥ १२४ ॥
भक्तिमान्
यः सदोत्थाय
शुचिस्तद्गतमानसः
।
सहस्रं
वासुदेवस्य
नाम्नामेतत्प्रकीर्तयेत्
॥ १२५ ॥
यशः
प्राप्नोति
विपुलं
ज्ञातिप्राधान्यमेव
च ।
अचलां
श्रियमाप्नोति
श्रेयः
प्राप्नोत्यनुत्तमम्
॥ १२६ ॥
न भयं
क्वचिदाप्नोति
वीर्यं
तेजश्च
विन्दति ।
भवत्यरोगो
द्युतिमान्बलरूपगुणान्वितः
॥ १२७ ॥
रोगार्तो
मुच्यते
रोगाद्बद्धो
मुच्येत बन्धनात्
।
भयान्मुच्येत
भीतस्तु
मुच्येतापन्न
आपदः ॥ १२८ ॥
दुर्गाण्यतितरत्याशु
पुरुषः
पुरुषोत्तमम्
।
स्तुवन्नामसहस्रेण
नित्यं
भक्तिसमन्वितः
॥ १२९ ॥
वासुदेवाश्रयो
मर्त्यो
वासुदेवपरायणः
।
सर्वपापविशुद्धात्मा
याति ब्रह्म
सनातनम् ॥ १३०
॥
न
वासुदेवभक्तानामशुभं
विद्यते
क्वचित् ।
जन्ममृत्युजराव्याधिभयं
नैवोपजायते ॥ १३१
॥
इमं
स्तवमधीयानः
श्रद्धाभक्तिसमन्वितः
।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः
॥ १३२ ॥
न
क्रोधो न च
मात्सर्यं न
लोभो नाशुभा
मतिः ।
भवन्ति
कृत
पुण्यानां
भक्तानां
पुरुषोत्तमे
॥ १३३ ॥
द्यौः
सचन्द्रार्कनक्षत्रा
खं दिशो भूर्महोदधिः
।
वासुदेवस्य
वीर्येण
विधृतानि
महात्मनः ॥ १३४
॥
ससुरासुरगन्धर्वं
सयक्षोरगराक्षसम्
।
जगद्वशे
वर्ततेदं
कृष्णस्य
सचराचरम् ॥ १३५
॥
इन्द्रियाणि
मनो बुद्धिः
सत्त्वं तेजो
बलं धृतिः ।
वासुदेवात्मकान्याहुः
क्षेत्रं
क्षेत्रज्ञ
एव च ॥ १३६ ॥
सर्वागमानामाचारः
प्रथमं
परिकल्पते ।
आचारप्रभवो
धर्मो
धर्मस्य
प्रभुरच्युतः
॥ १३७ ॥
ऋषयः
पितरो देवा
महाभूतानि
धातवः ।
जङ्गमाजङ्गमं
चेदं
जगन्नारायणोद्भवम्
॥ १३८ ॥
योगो
ज्ञानं तथा
सांख्यं
विद्याः
शिल्पादि कर्म
च ।
वेदाः
शास्त्राणि
विज्ञानमेतत्सर्वं
जनार्दनात् ॥ १३९
॥
एको
विष्णुर्महद्भूतं
पृथग्भूतान्यनेकशः
।
त्रींल्लोकान्व्याप्य
भूतात्मा
भुङ्क्ते
विश्वभुगव्ययः
॥ १४० ॥
इमं
स्तवं भगवतो विष्णोर्व्यासेन
कीर्तितम् ।
पठेद्य
इच्छेत्पुरुषः
श्रेयः
प्राप्तुं सुखानि
च ॥ १४१ ॥
विश्वेश्वरमजं
देवं जगतः
प्रभुमव्ययम्
।
भजन्ति
ये
पुष्कराक्षं
न ते यान्ति
पराभवम् ॥ १४२
॥
न ते
यान्ति
पराभवम ॐ नम
इति ।
॥ हरिः
ॐ तत्सत् ॥